वांछित मन्त्र चुनें

स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः । अनु॑ दह स॒हमू॑रान्क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥

अंग्रेज़ी लिप्यंतरण

sanād agne mṛṇasi yātudhānān na tvā rakṣāṁsi pṛtanāsu jigyuḥ | anu daha sahamūrān kravyādo mā te hetyā mukṣata daivyāyāḥ ||

पद पाठ

स॒नात् । अ॒ग्ने॒ । मृ॒ण॒सि॒ । या॒तु॒ऽधाना॑न् । न । त्वा॒ । रक्षां॑सि । पृत॑नासु । जि॒ग्युः॒ । अनु॑ । द॒ह॒ । स॒हऽमू॑रान् । क्र॒व्य॒ऽअदः॑ । मा । ते॒ । हे॒त्याः । मु॒क्ष॒त॒ । दैव्या॑याः ॥ १०.८७.१९

ऋग्वेद » मण्डल:10» सूक्त:87» मन्त्र:19 | अष्टक:8» अध्याय:4» वर्ग:8» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:19


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे तेजस्वी नायक ! (यातुधानान्) यातनाधारकों को (सनात्-मृणसि) सदा से तू हिंसित करता है (रक्षांसि त्वा पृतनासु न जिग्युः) राक्षस दुष्ट तुझे संग्रामों में नहीं जीतते हैं (क्रव्यादः समूरान्-अनुदह) मांसभक्षकों को समूल अनुक्रम संदग्ध कर (ते दैव्यायाः-हेत्या मा मुक्षत) तेरी विद्युत् से युक्त प्रहार-शक्ति से मुक्त न हों ॥१९॥
भावार्थभाषाः - सेनानायक ऐसा होना चाहिए, जिसे संग्राम में शत्रुजन जीत न सके। ऐसा वैद्युत अस्त्र चलानेवाला हो, जिससे कोई न बच सके ॥१९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे तेजस्विन् नायक ! (यातुधानान्) यातनाधारकान् (सनात्-मृणसि) सदातनात्-खलु हिंससि “मृण हिंसायाम्” [तुदादि०] (रक्षांसि त्वा पृतनासु न जिग्युः) राक्षसा दुष्टास्त्वां सङ्ग्रामेषु “पृतनाः सङ्ग्रामनाम” [निघ० २।१७] न जयन्ति (क्रव्यादः समूरान्-अनुदह) मांसभक्षकान् समूलान् खल्वनुक्रमेण दग्धीकुरु (ते दैव्यायाः-हेत्या मा मुक्षत) तव विद्युद्युक्तायाः प्रहारिकायाः खलु मुक्ता न भवन्तु ॥१९॥